Apr 3, 2025
गौतम बुद्ध: जीवन कथा।
पुरा नेपाल-देशे 'शाक्य'-जातेः नृपः शुद्धोदनः आसीत्। सिद्धार्थः तस्य पुत्रः आसीत्। मायादेवी अस्य जनन्याः नामासीत्। सप्तेभ्यः दिनेभ्यः अनन्तरम् तस्य जननी परलोकम् अगच्छत्। तदा तस्य विमाता गौतमी तमपालयत्। प्राप्ते यौवने यशोधरा नाम्नी कन्या तस्य पत्नी अभूत्। तस्य पुत्रस्य नाम राहुलः आसीत्।
सिद्धार्थः जन्मजात मेधावी आसीत्। सः अचिरेण अष्टदशः विद्याः सर्वाः कलाः च प्राप्तवान्। सः शस्त्रास्त्रचालने अपि निपुणः आसीत्। सः योग्यः राजकुमारः आसीत् परं संसारस्य व्यवहारे लिप्तः न अभवत्। एते संसारस्य भोगाः नश्वराः सन्ति इति तस्य भावना आसीत्।
एकदा असित नाम कश्चित् वृद्धः ऋषिः तत्रागच्छत्। सः बालकं दृष्ट्वा प्रथमम् प्रसन्नः अभवत् ततः च खिन्नः अभवत्। नृपेण पृष्टः सः अवदत्-"एषः बालकः संसारं त्यक्त्वा वनं गमिष्यतीति हेतोः खिन्नः अभवम्।" अतः सिद्धार्थस्य पितुः मनः भृशम् व्यथत्।एकदा सिद्धार्थः राजप्रासादे एकाकी उपविष्टः आसीत्। तदैव केचित् परिजनाः तत्र आगच्छन् । ते सिद्धार्थमकथयन् "राजकुमार ! ऋतुरयं वसन्तः। धीरः समीरः वहति। उपवनेषु वृक्षेषु, लतासु च चित्रविचित्राः पक्षिणः कलरवैः क्रीडाभिश्च चित्तं हरन्ति। कोकिलानां तु काकली हठात् पथिकान् मन्त्रमुग्धान् इव करोति । वस्तुतः भ्रमणयोग्योऽयं कालः।"
एतत् श्रुत्वा सिद्धार्थस्तु उपवनेषु विहाराय निश्चयमकरोत् । शुद्धोदनः राजकर्मचारिणः आदिशत् यन्मार्गेषु कुत्रापि कोऽपि आत्तों जनो न भवेत्, येन कुमारस्य चित्ते ग्लानिः स्यात् । राजकुमारः सिद्धार्थः पितुः आज्ञां प्राप्य स्वर्णमये रथे उपाविशत्। सारथिः राजमार्गे रथम् अचालयत्।
अथ सावधानेष्वपि राजकर्मचारिषु देवमायया कश्चित् जरयाऽभिभूतो नरः कम्पमानः मार्गे आगच्छत्। कुमारस्तु तं तथा क्षीणं दुर्बल-दृष्टिं, जरापलित केशं, नतपृष्ठं, कम्पमानं देहयष्टिं च दृष्ट्वा उद्विग्नः सन् सूतमपृच्छत्-" भो" सूत! क एषः विकृतदेहः दण्डाश्रयेण चलति ? किं स्वभावतः एवायमेतादृशः उत विक्रियैषा ?"
सूतोऽपि देवमायया मुग्धमतिः किं कथनीयं किं च न कथनीयमित्यजानन् सर्वं स्पष्टमेवाकथयत्। सोऽवदत्-" राजकुमार! एषः वृद्धावस्थायाः प्रभावः। वृद्धावस्था रूपं बलं च नाशयति। एषः वयः प्रकर्षः सर्वेषामेव भवति, अतः निःसंशयं भवानपि इमां दशां द्रक्ष्यति।"
सः एक वृद्धम्, एकम् रुग्णम्, एक शवं चापश्यत्। किमहमपि एवं भविष्यामीति एतत् चिन्तयित्वा सः संसारात् विरक्तः अभवत्। अत्र-हेतोः एकस्यां रात्रौ राज्यभोगान् त्यक्त्वा सः वनं प्रति प्रस्थितः। वनं गत्वा सः घोरं तपः कृतवान्। तपः कुर्वन् एकस्मिन् दिने फल्गुननद्याः तीरे पिप्पलवृक्षस्य मूले सः अतिष्ठत्। अत्रैव सः तत्त्वज्ञानं अलभत। ज्ञान-प्राप्तेः पश्चात् सः 'बुद्ध' इति नाम्ना संसारे ख्यातः। अनन्तरं तस्य स्थानस्य नाम 'बोधगया' अभवत्। तस्य वृक्षस्य नाम 'बोधिवृक्षः' अभवत्।
बुद्धस्य मते अहिंसा, भूतदया सत्यं, अस्तेयं, शरणागत-परित्राणं चेति प्रमुखाः सिद्धान्ताः आसन्। सः तपस्यायां मध्यं मार्गं श्रेयांसं मन्यते स्म।बौद्ध-धर्मः संसारे प्रसृतः आसीत्। वर्तमान कालेऽपि अनेकेषु देशेषु अस्य धर्मस्य अनुयायिनः विद्यन्ते। अहिंसा, विचारशुद्धिः कर्मशुद्धिः च बौद्ध-धर्मस्य सारोऽस्ति ।
By undefined
14 notes ・ 6 views
Sanskrit
Beginner